|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.303. अध्यायः 303
Mahabharata - Shanti Parva - Chapter Topics
भूष्मेण युधिष्ठिरंप्रति धर्मादिसाधनतया मानुष्यप्रशंसापूर्वकं नानाधर्मप्रतिपादकपराशारगीतानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
पराशर उवाच। 12-303-0x(6459)(77550)
पिता सखायो गुरवः स्त्रियश्च
न निर्गुणानां प्रभवन्ति लोके।
अनन्यभक्ताः प्रियवादिनश्च
हिताश्च वश्याश्च तथैव राजन्॥ 12-303-1(77551)
पिता परं दैवतं मानवानां
मातुर्विशिष्टं पितरं वदन्ति।
ज्ञानस्य लाभं परमं वदन्ति
जितेन्द्रियार्थाः परमाप्नुवन्ति॥ 12-303-2(77552)
रणाजिरे यत्र शराग्निसंस्तरे
नृपात्मजो घातमवाप्य दह्यते।
प्रयाति लोकानमरैः सुदुर्लभा
न्निषेवते स्वर्गफलं यथासुखम्॥ 12-303-3(77553)
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं
पराङ्भुखं पारिवर्हैश्च हीनम्।
अनुद्यन्तं रोगिणं याचमानं
न वै हिंस्याद्बालवृद्धौ च राजन्॥ 12-303-4(77554)
पारिबर्हैः सुसंयुक्तमुद्यतं तुल्यतां गतम्।
अतिक्रमेत्तं नृपतिः संग्रामे क्षत्रियात्मजम्॥ 12-303-5(77555)
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः।
निहीनात्कातराच्चैव कृपणाद्गर्हितो वधः॥ 12-303-6(77556)
पापात्पापसमाचारान्निहीनाच्च नराधिप।
पाप एष वधः प्रोक्तो नरकायेति निश्चयः॥ 12-303-7(77557)
न कश्चित्राति वै राजन्दिष्टान्तवशमागतम्।
सावशेषायुषं चापि कश्चिन्नैवापकर्षति॥ 12-303-8(77558)
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत्।
हिंसात्मकानि सर्वाणि नायुरिच्छेत्परायुषा॥ 12-303-9(77559)
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम्।
निधनं शोभनं तात पुलिनेषु क्रियावताम्॥ 12-303-10(77560)
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति।
तथा ह्यकारणाद्भवति कारणैरुपपादितम्॥ 12-303-11(77561)
तथा शरीरं भवति देहाद्येनोपपादितम्।
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम्॥ 12-303-12(77562)
द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते।
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते॥ 12-303-13(77563)
शिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम्।
भूतानामिन्द्रियाणां च गुणानां च समागमम्॥ 12-303-14(77564)
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः।
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम्॥ 12-303-15(77565)
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम्।
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति॥ 12-303-16(77566)
भावितं कर्मयोगेन जायते तत्रतत्र ह।
इदं शरीरं वैदेह म्रियते यत्रयत्र ह।
तत्प्रपाते परो दृष्टो विसर्गः कर्मणस्तथा॥ 12-303-17(77567)
न जायते तु नृपते कंचित्कालमयं पुनः।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान्॥ 12-303-18(77568)
स पुनर्जायते राजन्प्राप्येहायतनं नृपः।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः॥ 12-303-19(77569)
विविधानां च भूतानां जङ्गमाः परमा नृप।
जङ्गमानामपि तथा द्विपदाः परमा मताः।
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः॥ 12-303-20(77570)
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः।
प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः॥ 12-303-21(77571)
जातमन्वेति मरणं नृणामिति विनिश्चयः।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः॥ 12-303-22(77572)
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत्।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत्॥ 12-303-23(77573)
अयोजयित्वा क्लेशेन जनं प्लाप्य च दुष्कृतम्।
मृत्युनाऽऽत्मकृतेनेह कर्म कृत्वाऽऽत्मशक्तितः॥ 12-303-24(77574)
विषमुद्बन्धनं दाहो दस्युहस्तात्तथ वधः।
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते॥ 12-303-25(77575)
न चैभिः पुण्यकर्माणो युज्यन्ते चाभिसंधिजैः।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि॥ 12-303-26(77576)
ऊर्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप।
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम्॥ 12-303-27(77577)
एकः शत्रुर्न द्वितीयोस्ति शत्रु
रज्ञानतुल्यः पुरुषस्य राजन्।
येनावृतः कुरुते संप्रयुक्तो
घोराणि कर्माणि सुदारुणानि॥ 12-303-28(77578)
प्रबोधनार्थं श्रुतिधर्मयुक्तं
वृद्धानुपास्य प्रभवेत यस्य।
प्रयत्नसाध्यो हि स राजपुत्र
प्रज्ञाशरेणोन्मथितः परैति॥ 12-303-29(77579)
अधीत्य वेदं तपसा ब्रह्मचारी
यज्ञाञ्शक्त्या सन्निसृज्येह पञ्च।
वनं गच्छेत्पुरुषो धर्मकामः
श्रेयः कृत्वा स्थापयित्वा स्ववंशम्॥ 12-303-30(77580)
उपभोगैरपि त्यक्तं नात्मानं सादयेन्नरः।
चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम्॥ 12-303-31(77581)
इयं हि योनिः प्रथमा यां प्राप्य जगतीयते।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः॥ 12-303-32(77582)
कथं न विप्रणश्येम योनितोस्या इति प्रभो।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात्॥ 12-303-33(77583)
यो दुर्लभतरं प्राप्य मानुष्यं द्विषते नरः।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते॥ 12-303-34(77584)
यस्तु प्रीतिपुराणेन चक्षुषा तात पश्यति।
दीपोपमानि भूतानि यावदर्थान्न पश्यति॥ 12-303-35(77585)
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत।
समदुःखसुखो भूत्वा स परत्र महीयते॥ 12-303-36(77586)
दानं त्यागः शोभना मुर्तिमद्भ्यो
भूयः प्लाव्यं तपसा वै शरीरम्।
सरस्वतीनैमिषपुष्करेषु
ये चाप्यन्ये पुण्यदेशाः पृथिव्याम्॥ 12-303-37(77587)
गृहेषु येषामसवः पतन्ति
तेषामथो निर्हरणं प्रशस्तम्।
यानेन वै प्रापणं च श्मशाने
शुचौ देशे विधिना चैव दाहः॥ 12-303-38(77588)
इष्टिः पुष्टिर्यजनं याजनं च
दार्ग पुण्यानां कर्मणां च प्रयोगः।
शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं
सर्वाण्यात्मार्थे मानवोऽयं करोति॥ 12-303-39(77589)
`गृहस्थानां च सर्वेषां विनाशमभिकाङ्क्षताम्।
निधनं शोभनं तात पुलिनेषु क्रियावताम्॥' 12-303-40(77590)
धर्मशास्त्राणि वेदाश्च ष़डङ्गानि नराधिप।
श्रेयसोर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः॥ 12-303-41(77591)
भीष्म उवाच। 12-303-42x(6460)
एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना।
विदेहराजाय पुरा श्रयेसोर्थे नराधिप॥ ॥ 12-303-42(77592)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्र्यधिकत्रिशततमोऽध्यायः॥ 303॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-303-2 लाभं लाभहेतुम्॥ 12-303-4 पारिबर्है रथाश्वकवचादिभिः॥ 12-303-5 अतिक्रमेज्जयेत्॥ 12-303-8 दिष्टान्तो मृत्युः॥ 12-303-9 सन्नद्धैः क्रियमाणानीति थ. पाठः। हिंसात्मकानि कर्माणीति ध. पाठः॥ 12-303-10 पुलिनेषु पुलिनवत्सु तीर्थेषु निधनं मरणं श्रेयः॥ 12-303-15 शरीरं मन्दतां गतमिति ध. पाठः॥ 12-303-17 तत्स्वभावो परो दृष्ट इति झ. पाठः॥ 12-303-32 आत्मा वै शक्यते ज्ञातुमिति ध. पाठः॥ 12-303-36 सांत्वेनान्नप्रदानेनेति झ. पाठः॥ 12-303-35 प्रीतिपुराणेन प्रीत्या चिरंतनेन दीपोपमानि स्नेहेन संवर्धनीयानि। याक्दर्थान् सर्वान्विषयान् दयावान् भूतानि पश्यति विरक्तोऽर्थान्न पश्यति यः स महीयते इत्युत्तरेण संबन्धः॥ 12-303-38 शौचेनं नूनं विधिना चेति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|